Sanskrit Education उत्थापकयन्त्रं(lift)स्थापयन्तु, सोपानानि(Stairs)तु मा विनाशयन्तु
(क्वचित् ‘समर्थ’-पोर्टलस्य कारणेन संस्कृतविद्यासंरक्षणस्य स्वप्नमेव असमर्थं न भवेत्)
– आचार्यः अनेकान्तकुमारजैनः
शिक्षाक्षेत्रे सुधारस्य दिशि अङ्कीकरणम् (Digitalisation) अन्तर्जालाधारितव्यवस्था च निःसन्देहं क्रान्तिकारी पदक्षेपः। एताभ्यां पारदर्शिता वर्धिता, अभिलेखाः सुरक्षिताः जाताः, समयस्य संरक्षणं अभवत्, अनेकप्रकाराणाम् अनियमिततानामपि नियन्त्रणं सम्भवम् अभवत्। शासनस्य प्रयोजनमपि तदेव यत् प्रत्येकं विद्यार्थिनं समानः अवसरः प्राप्नुयात् तथा प्रवेशप्रक्रिया सरला, निष्पक्षा, पारदर्शिनी च भवेत्। अतः अस्मिन् दृष्टिकोणे अङ्कीकरणाधारितव्यवस्थायाः स्वागतमेव कर्तव्यम्।
किन्तु कस्यापि व्यवस्थायाः सफलता तेनैव ज्ञायते यत् सा व्यवहारभूमौ कियत् उपयोगिनी सिद्ध्यति। समस्या अङ्कीकरणे नास्ति। समस्या तदा आरभते यदा काचित् व्यवस्था विकल्परूपेण न स्थाप्यते, अपितु अनिवार्या क्रियते, तया सह सम्बद्धा मानवीयव्यवस्था च सम्पूर्णतया निराक्रियते।संस्कृतस्य पारम्परिकशिक्षा अस्याः स्थितेः सर्वश्रेष्ठम् उदाहरणम् अस्ति। Sanskrit Education
सर्वत्र छात्राभावः Sanskrit Education
अद्य सामान्यतः विद्यार्थिनः रोजगारोन्मुखविषयेषु अधिकं प्रवर्तन्ते। संस्कृतस्य, प्राकृतस्य, दर्शनस्य, भारतीयज्ञानपरम्परायाश्च अध्ययनाय पूर्वमेव अत्यल्पाः विद्यार्थिनः आगच्छन्ति। देशस्य बहवः विश्वविद्यालया:,संस्कृतमहाविद्यालयाः गुरुकुलानि च छात्राभावेन संघर्षं कुर्वन्ति। ये कतिपयाः विद्यार्थिनः भारतीयसंस्कृतेः, भाषायाः, दर्शनस्य च संरक्षणभावनया एतेषु संस्थानेषु आगच्छन्ति, ते न कस्यापि विज्ञापनस्य आकर्षणेन न वा भौतिकलोभेन तत्र आगच्छन्ति। समाजस्य, निजसंस्थानां, गुरूणां, विदुषां च दीर्घकालीनप्रोत्साहनानन्तरमेव ते तत्र पर्यन्तं प्राप्नुवन्ति।
एवंविधानां विद्यार्थिनां प्रवेशः एव स्वयमेव एका साधना भवति । पूर्वं प्रवेशप्रक्रिया अत्यन्तं सरला आसीत्। विद्यार्थी आवेदनपत्रं पूरयति स्म, अङ्कपत्रं आवश्यकप्रमाणपत्राणि च संलग्नीकृत्य संस्थायै समर्पयति स्म। संस्था तस्य सत्यापनं करोति स्म। लेखाविभागे शुल्कं दत्त्वा प्रवेशः सम्पन्नः भवति स्म। अस्यां सम्पूर्णायां प्रक्रियायां यदि कुत्रचित् कठिनता जायते स्म, तर्हि शिक्षकः, कर्मचारी वा वरिष्ठविद्यार्थी तत्रैव उपविश्य तस्य साहाय्यं करोति स्म। विद्यार्थी कदापि एकाकी न भवति स्म।
वर्तमानदुष्करप्रवेशप्रक्रिया Sanskrit Education
अद्य सा एव प्रक्रिया बहुषु चरणेषु विभक्ता अस्ति। प्रथमं (CUET)सीयूईटी-पञ्जीकरणं कुर्यात्। ततः परीक्षा दद्यात्। अनन्तरं संस्थायाः चयनं कुर्यात्। पुनश्च पृथगेव पोर्टले पञ्जीकरणं कुर्यात्। ततः अन्तर्जालमाध्यमेन शुल्कं दद्यात्। अनन्तरं परामर्शप्रक्रियायां (Counselling) उपस्थितो भवेत्। पुनः अन्तर्जालमाध्यमेन प्रवेशशुल्कं दद्यात्। एतत् सर्वं च निश्चितायां समयसीमायामेव सम्पन्नं करणीयम्। प्रायशः समर्थपटलेपि बहुबाधा भवति ।
यस्मिन् युगे हस्तेन एकपृष्ठीयं प्रवेशपत्रं पूरयित्वा, न्यूनतमं शुल्कं दत्त्वा, छात्रवृत्तीनाम् आश्रयं च प्राप्यापि सामान्यः विद्यार्थी संस्कृताध्ययनाय सहजतया प्रवृत्तो न भवति, तस्मिन् युगे केवलम् अन्तर्जालमाध्यमेन प्रवेशस्य विकल्पं प्रदाय तस्य डिजिटल-प्रक्रियां च जटिलां कृत्वा व्यवस्थायाः भारं विद्यार्थिनां उपरि स्थापयितुं ‘दरिद्रस्य उपरि भारः’ इति उक्तिः यथार्थतामेव आप्नोति ।
ये विद्यार्थी महानगरेषु निवसन्ति, अङ्कीकरणव्यवस्थायां परिचिताः सन्ति, येषां समीपे सर्वदा अन्तर्जालं, ब्रॉडबैंड-सुविधा, तकनीकीसाहाय्यं च सुलभं भवति, तेषां कृते एषा सामान्यविषयः भवेत्,किन्तु ते संस्कृतविश्वविद्यालये प्रवेशयतुं न आगच्छन्ति, ते आधुनिकविश्वविद्यालये गच्छन्ति । अत्र यक्षप्रश्नः किं देशस्य प्रत्येकः विद्यार्थी समानायामेव परिस्थितौ वर्तते ? विशेषतः ग्रामीणसंस्कृतविद्यार्थिन: ?
स्वानुभवः Sanskrit Education
प्रतिवर्षस्य अनुभवाः तु भिन्नमेव कथां कथयन्ति ।कथञ्चित् कस्यचित् गुरुकुलस्य विद्यार्थिनः प्रवेशाय प्रेरणा कृता। सः समये सीयूईटी-पञ्जीकरणं न कृतवान्। ततः तं नॉन-सीयूईटी-पञ्जीकरणाय बोधितम्। बहुदिनपर्यन्तं पोर्टलमेव न प्रवृत्तम्। कथञ्चित् तत् प्रवृत्तं चेत् अपि तत्र अपेक्षिताः सूचनाः सः स्वयं पूरयितुं न शक्तवान्। अथ कथञ्चित् सर्वं पूरितम्, तदा बैंङ्क-सर्वरः शुल्कप्रदानं न स्वीकृतवान्। परामर्शप्रक्रियायां सः उपस्थितः अभवत्, शुल्कस्य नगदराशिं च स्वेन सह आनीतवान्। लेखाविभागे गत्वा ज्ञातं यत् नगदशुल्कं न स्वीक्रियते। ‘भवतः चलदूरभाषे (मोबाइले) एकः सम्पर्कसूत्रः (Link) आगमिष्यति’ इति कथितम्। बहुदिनानि यावत् सः सम्पर्कसूत्रः न आगतः। यदा आगतः तदा शुल्कप्रदानम् अनेकवारं विफलम् अभवत्। अन्ते सः निराशः सन् कस्मिंश्चित् अन्यविश्वविद्यालये अन्यविषये प्रवेशं स्वीकृतवान्।
एषा केवलम् एकस्य विद्यार्थिनः कथा नास्ति। प्रायः प्रत्येकस्य संस्थानस्य समीपे एतादृशाः बहवः अनुभवाः सन्ति। संस्कृतशिक्षायाः एकः अन्यः विशिष्टः पक्षोऽपि अस्ति। अत्र केवलं युवान एव न आगच्छन्ति। अनेकाः वरिष्ठनागरिका अपि आत्मज्ञानस्य, शास्त्राध्ययनस्य, आध्यात्मिकजिज्ञासायाश्च कारणेन प्रवेशं गृह्णन्ति। ते केवलं पदवीप्राप्तये न आगच्छन्ति, अपितु वास्तविकज्ञानस्य अन्वेषणाय आगच्छन्ति। किन्तु यदा प्रवेशस्य प्रथममेव सोपानं डिजिटल-दक्षता भवति, तदा तेषाम् उत्साहः स्वाभाविकतया क्षीयते।
अपि च, अनेकाः साधवः सन्तश्च केवलं ज्ञानार्जनस्य प्रयोजनेन संस्कृतविश्वविद्यालयेषु प्रवेशं गृह्णन्ति। ते अपरिग्रहव्रतधारिणः भवन्ति; न धनार्जनं कुर्वन्ति, न च तेषां समीपे धनं भवति। चलदूरभाषस्य, सङ्गणकयन्त्रस्य (Laptop) इत्यादीनां प्रयोगः तेषां संघपरम्परायां निषिद्धो भवति। पारम्परिकसंस्कृतविद्या तेषाम् आत्मज्ञानस्य साधनं भवति, तेषां साधनां च उत्कृष्टतां नयति।
अधुना प्रश्नः – एतेऽपि तु अस्मिन् देशे नागरिकाः एव सन्ति। किं ते अङ्कीकरणव्यवस्थायां प्रविष्टाः न भूत्वा शास्त्रीम्, आचार्यपदवीं, विद्यावारिधिपदवीं वा प्राप्तुं न शक्नुवन्ति? तेषां शिक्षाधिकारस्य ज्ञानाधिकारस्य च संरक्षणं कः करिष्यति?
अनुपयोगी – प्रवेशपरीक्षा Sanskrit Education
अस्यामेव दिशि अन्यदपि एकं प्रश्नं विचारणीयम् अस्ति। प्रवेशपरीक्षा तत्र आवश्यकं साधनं भवति, यत्र सहस्रशः अभ्यर्थिनः भवन्ति, पाठयक्रमे आसनानि च सीमितानि भवन्ति। किन्तु संस्कृतशिक्षाक्षेत्रे बहुषु प्रसङ्गेषु यावन्ति आसनानि सन्ति, तावन्तोऽपि विद्यार्थिनः आवेदनं न कुर्वन्ति, इति वर्तमानस्थिति:। यत्र स्पर्धैव नास्ति, तत्र प्रवेशप्रक्रियां किमर्थम् एतावतीं क्लिष्टां कर्तव्यम्? यदि संस्थास्तरे साक्षात्कारः, योग्यतापरीक्षणं, अन्ये वा सरलाः उपायाः उपलब्धाः सन्ति, तर्हि ते पर्याप्तं महत्त्वं किमर्थं न प्राप्नुयुः?
शिक्षानीतेः प्रयोजनम् Sanskrit Education
एतदपि स्मर्तव्यम् यत् शिक्षानीतेः प्रयोजनं केवलं व्यवस्था-निर्माणं न भवति। तस्याः परमं प्रयोजनं विद्यार्थिनः शिक्षया सह संयोजयितुम् अस्ति। यदि व्यवस्था तावती क्लिष्टा भवेत् यत् विद्यार्थी प्रवेशं स्वीकर्तुम् आरभ्य एव निवर्तेत, तर्हि अस्माभिः गम्भीरतया चिन्तनीयम् ,किं वयं नकिञ्चिद् अज्ञाततया स्वस्यैव लक्ष्याद् दूरं गच्छामः?
अङ्कीकरणव्यवस्थायाः अर्थः कदापि मानवीयव्यवस्थायाः अन्तःकरणं न भवितुमर्हति। उभे व्यवस्थे परस्परं सहैव प्रवर्तितुं शक्नुतः। यस्य विद्यार्थिनः समीपे अन्तर्जालसुविधा अस्ति, सः तस्याः उपयोगं करोतु। यस्य साहाय्यम् अपेक्षितम्, तस्मै संस्थामाध्यमेन प्रवेशस्य सुविधापि दीयताम्। एवं पारदर्शिता अपि अक्षुण्णा भविष्यति, कोऽपि विद्यार्थी केवलं तकनीकीकारणेन शिक्षायाः वञ्चितोऽपि न भविष्यति।
अद्य शासनं भारतीयज्ञानपरम्परायाः, संस्कृतस्य, भारतीयभाषाणां, सांस्कृतिकविरासतश्च संरक्षणस्य विषये गम्भीरतया वदति। नूतनशिक्षानीतिरपि अस्मिन् क्षेत्रे महत्त्वपूर्णं पदक्षेपमस्ति। यदि यथार्थरूपेण एतेषां प्रयोजनानां सफलतां वाञ्छामः, तर्हि प्रवेशप्रक्रियामपि तदनुरूपमेव निर्मातव्या। नीतिमूल्याङ्कनं केवलं पोर्टलनिर्माणेन न भविष्यति; अपितु तेन कति विद्यार्थिनः शिक्षया सह सम्बद्धाः अभवन्,एतेन भविष्यति।
उत्थापकयन्त्रं (lift) सुविधा,सोपानानि तु आधार: Sanskrit Education
एकः दृष्टान्तः मां पुनः पुनः स्मारयति। यदा कश्चित् आधुनिकः भवनः निर्मीयते, तदा तत्र उत्थापकयन्त्रं (Lift) अवश्यं स्थाप्यते। किन्तु तस्य भवनस्य सोपानानि कदापि न नश्यन्ते। कारणं सर्वे जानन्ति,कदाचित् विद्युत्प्रवाहः न भविष्यति, कदाचित् उत्थापकयन्त्रं न प्रवर्तिष्यते, कदाचित् आकस्मिकः प्रसङ्गः उत्पत्स्यते। तदा तानि सोपानान्येव सर्वाधिकम् उपयोगीनि भवन्ति। सामान्यदिनेऽपि स्वास्थ्यलाभाय बहवः जनाः सोपानानामेव उपयोगं कुर्वन्ति। संस्कृतशिक्षाक्षेत्रे वयं किम् एतादृशीमेव त्रुटिं कृतवन्तः , उत्थापकयन्त्रं तु स्थापितम्, किन्तु सोपानान्येव भग्नानि?
पारम्परिकसंस्कृतशिक्षा केन जीविता अस्ति ? Sanskrit Education
पारम्परिकसंस्कृतशिक्षा अद्यावधि पारम्परिकमानवीयसम्बन्धानामेव कारणेन जीविता अस्ति। अत्र विद्यार्थी केवलं पाठ्यक्रमस्य अध्ययनाय न आगच्छति। तस्मै आत्मीयता प्राप्यते, मार्गदर्शनं प्राप्यते, भोजनं प्राप्यते, संस्काराः प्राप्यन्ते, परिवारसदृशं वातावरणं च लभ्यते। एतस्य वात्सल्यस्य कारणादेव सः तत्र स्थिरो भवति।
यदि वयं अपेक्षेमहि यत् अद्यतनः विद्यार्थी स्वयमेव सर्वाः डिजिटल-औपचारिकताः सम्पादयेत्, पुनः पुनः शुल्कं दद्यात्, भाटकेन गृहं स्वीकृत्य वसेत्, केवलं संस्कृतप्रेम्णा सर्वाः कठिनताः सहेत च, तर्हि एषा व्यवहारसङ्गता दृष्टिः न भवति। अद्यतनपीढी यदि संस्कृतस्य दिशि एकवारमपि उन्मुखीभवितुं निर्णयं करोति, तर्हि अस्माभिः तस्य हस्तं गृहीत्वा तं अग्रे नेतव्यम्, न तु तस्य पुरतः नूतनान् नूतनान् प्रशासनिकप्रतिबन्धान् स्थापयितव्यम्।
अस्यापि परं यदि बहुवर्षीयप्रयोगानन्तरं सर्वं सुव्यवस्थितं जातमभविष्यत्, तर्हि किमपि न वक्तव्यम् आसीत्। किन्तु उत्तरोत्तरं सुधारस्य स्थाने परिस्थितिः प्रतिकूलतामेव गता,पारम्परिकसंस्कृतविद्यायाः विषये तु न्यूनाधिकं निःसन्देहं एतत् वक्तुं शक्यते। विद्यार्थिनां संख्या पूर्वापेक्षया अपि न्यूनतरा भवति।
मम विनम्रः आग्रहः केवलम् एतावान् एव अङ्कीकरणं भवतु , अधिकमपि भवतु ; किन्तु तद् विकल्परूपेण स्थाप्यताम्, बाधारूपेण मा भवतु । यत्र आवश्यकता भवति, तत्र संस्थाभ्यः सीमितस्तरे मानवीयसाहाय्यस्य, मैनुअल-प्रवेशप्रक्रियायाश्च वैकल्पिकसुविधां दातुं शक्यताम्। एवं न पारदर्शिता क्षीयते, न व्यवस्था विक्षिप्यते; अपितु येषां विद्यार्थिनां कृते एषा शिक्षाव्यवस्था निर्मिता, तेषाम् अपि तस्याः लाभः सुनिश्चितो भवति।
आधुनिकभारताय उत्थापकयन्त्रमपि आवश्यकम्, सोपानान्यपि। उत्थापकयन्त्रं सुविधां ददाति; सोपानानि तु परम्परां रक्षन्ति, अस्मान् अपि रक्षन्ति।Sanskrit Education
अतः नूतनव्यवस्थां स्वीकुर्वन्तु, परम्परां तु मा विस्मरन्तु। नवीनतां स्वीकरोतु, किन्तु पुरातनस्य जीवनदायिनः आधारस्य विनाशं मा करोतु। सारः अस्ति लेखनस्य यत् लिफ्ट् स्थापयन्तु,परन्तु सोपानानि मा विनाशयन्तु। Sanskrit Education
आचार्यः अनेकान्तकुमारजैनः
दर्शनशास्त्रपीठप्रमुखः,आचार्यः – जैनदर्शनम्
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली








Leave a Comment